9. இரண்டாவது, மூன்றாவது கூறு யாகங்களை பனிரெண்டு நாள் கழித்துச் செய்கிற பக்ஷமுமுண்டு. [இஷ்டிகளை நிறுத்திவைப்பதற்குக் காரணம் - அவைகளை உடனே செய்வதால், அவைகள் பசுப்போலிருப்பதாலும், அக்கினி ருத்திரனாய் (அதாவது குரூரனாய்) இருப்பதாலும், பசுக்களை ருத்திரனிடம் கொடுத்ததாக ஆகும். பனிரெண்டு நாள் கழித்தால், அவன் சாந்தனாய் விடுவான். (तैत्ति.ब्रा.अनु-6, पञ्चा.50,51).] அப்போது ஆதாநத்துக்குப் பிறகு, இந்த இஷ்டிகள் ஆகிறவரையில் மந்திரமில்லாமல் ஹோமம் செய்து கொண்டு வரவேண்டியது. (तैत्ति.ब्रा.1, प्रश्नः-1, अनु-6).

तैत्ति.ब्रा.अनु-6, प्रश्नः-50,51

यदाज्यम् । अ॒न॒डुह॑स्तण्डु॒लाः । मि॒थु॒नमे॒वाव॑रुन्धे । घृ॒ते भ॑वति । य॒ज्ञस्यालूख्षान्तत्वाय । च॒त्वार॑ आर्‌षे॒या प्राश्ञ॑न्ति । दि॒शामे॒व ज्योति॑षि जुहोति । प॒शवो॒ वा ए॒तानि॑ ह॒वीषि॑ । ए॒ष रु॒द्रः । यद॒ग्निः ॥50॥
यथ्स॒द्य ए॒तानि॑ ह॒वीषि॑ नि॒र्वपेत् । रु॒द्राय॑ प॒शूनपि॑ दध्यात् । अ॒प॒शुर्यज॑मानस्स्यात् । यन्नानु॑नि॒र्वपेत् । अन॑वरुद्धा अस्य प॒शव॑स्स्युः । द्वा॒द॒शसु॒ रात्री॒ष्वनु॒ निर्व॑पेत् । सँ॒व्व॒थ्स॒रप्र॑तिमा॒ वै द्वाद॑श॒ रात्र॑यः । सँ॒व्व॒थ्स॒रेणै॒वास्मै॑ रु॒द्र श॑मयि॒त्वा । प॒शूनव॑रुन्धे । यदेक॑मेकमे॒तानि॑ ह॒वीषि॑ नि॒र्वपेत् ॥51॥
यथा॒ त्रीण्या॒वप॑नानि पू॒रयेत् । ता॒दृक्तत् । न प्र॒जन॑न॒मुच्छि॑षेत् । एक॑न्नि॒रुप्य॑ । उत्त॑रे॒ सम॑स्येत् । तृ॒तीय॑मे॒वास्मै॑ लो॒कमुच्छि॑षति प्र॒जन॑नाय । तम्प्र॒जया॑ प॒शुभि॒रनु॒प्रजा॑यते । अथो॑ य॒ज्ञस्यै॒वैषाऽभिक्रान्तिः । र॒थ॒च॒क्रम्प्रव॑र्तयति । म॒नु॒ष्य॒र॒थेनै॒व दे॑वर॒थम्प्र॒त्यव॑रोहति ॥52॥
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । हो॒त॒व्य॑मग्निहो॒त्राँ (३)न हो॑त॒व्या (३) मिति॑ । यद्यजु॑षा जुहु॒यात् । अय॑थापूर्व॒माहु॑ती जुहुयात् । यन्न जु॑हु॒यात् । अ॒ग्नि परा॑भवेत् । तू॒ष्णीमे॒व हो॑त॒व्यम् । य॒था॒पू॒र्वमाहु॑ती जु॒होति॑ । नाग्नि परा॑भवति । अ॒ग्नीधे॑ ददाति ॥53॥
अ॒ग्निमु॑खाने॒वर्तून्प्री॑णाति । उ॒प॒बर्‌ह॑णन्ददाति । रू॒पाणा॒मव॑रुद्ध्यै । अश्व॑म्ब्र॒ह्मणे । इ॒न्द्रि॒यमे॒वाव॑रुन्धे । धे॒नु होत्रे । आ॒शिष॑ ए॒वाव॑रुन्धे । अ॒न॒ड्वाह॑मध्व॒र्यवे । वह्नि॒र्वा अ॑न॒ड्वान् । वह्नि॑रध्व॒र्युः ॥54॥
वह्नि॑नै॒व वह्नि॑ य॒ज्ञस्याव॑रुन्धे । मि॒थु॒नौ गावौ॑ ददाति । मि॒थु॒नस्याव॑रुद्ध्यै । वासो॑ ददाति । स॒र्व॒दे॒व॒त्यँ॑व्वै वासः॑ । सर्वा॑ ए॒व दे॒वता प्रीणाति । आ द्वा॑द॒शभ्यो॑ ददाति । द्वाद॑श॒ मासास्सँव्वथ्स॒रः । सँ॒व्व॒थ्स॒र ए॒व प्रति॑तिष्ठति । काम॑मू॒र्ध्वन्देयम् । अप॑रिमित॒स्याव॑रुद्ध्यै ॥55॥


तैत्ति.ब्रा.1, प्रश्नः-1, अनु-6

दे॒वा॒सु॒रास्सँय्य॑त्ता आसन्न् । ते दे॒वा वि॑ज॒यमु॑प॒यन्तः॑ । अ॒ग्नौ वा॒मँव्वसु॒ सन्न्य॑दधत । इ॒दमु॑ नो भविष्यति । यदि॑ नो जे॒ष्यन्तीति॑ । तद॒ग्निर्नोथ्सह॑मशक्नोत् । तत्त्रे॒धा विन्य॑दधात् । प॒शुषु॒ तृती॑यम् । अ॒फ्सु तृती॑यम् । आ॒दि॒त्ये तृती॑यम् ॥45॥
तद्दे॒वा वि॒जित्य॑ । पुन॒रवा॑रुरुथ्सन्त । तेऽग्नये॒ पव॑मानाय पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर॑वपन्न् । प॒शवो॒ वा अ॒ग्नि पव॑मानः । यदे॒व प॒शुष्वासीत् । तत्तेनावा॑रुन्धत । तेऽग्नये॑ पाव॒काय॑ । आपो॒ वा अ॒ग्नि पा॑व॒कः । यदे॒वाफ्स्वासीत् । तत्तेनावा॑रुन्धत ॥46॥
तेऽग्नये॒ शुच॑ये । अ॒सौ वा आ॑दि॒त्योऽग्निश्शुचिः॑ । यदे॒वादि॒त्य आसीत् । तत्तेनावा॑रुन्धत । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । त॒नुवो॒ वावैता अ॑ग्न्या॒धेय॑स्य । आ॒ग्ने॒यो वा अ॒ष्टाक॑पालोऽग्न्या॒धेय॒मिति॑ । यत्तन्नि॒र्वपेत् । नैतानि॑ । यथा॒ऽऽत्मा स्यात् ॥47॥
नाङ्गा॑नि । ता॒दृगे॒व तत् । यदे॒तानि॑ नि॒र्वपेत् । न तम् । यथाऽङ्गा॑नि॒ स्युः । नात्मा । ता॒दृगे॒व तत् । उ॒भया॑नि स॒ह नि॒रुप्या॑णि । य॒ज्ञस्य॑ सात्म॒त्वाय॑ । उ॒भयँ॒व्वा ए॒तस्येन्द्रि॒यँव्वी॒र्य॑माप्यते ॥48॥
योऽग्निमा॑ध॒त्ते । ऐ॒न्द्रा॒ग्नमेका॑दशकपाल॒मनु॒ निर्व॑पेत् । आ॒दि॒त्यञ्च॒रुम् । इ॒न्द्रा॒ग्नी वै दे॒वाना॒मया॑तमायामानौ । ये ए॒व दे॒वते॒ अया॑तयाम्नी । ताभ्या॑मे॒वास्मा॑ इन्द्रि॒यँव्वी॒र्य॑मव॑ रुन्धे । आ॒दि॒त्यो भ॑वति । इ॒यँव्वा अदि॑तिः । अ॒स्यामे॒व प्रति॑तिष्ठति । धे॒न्वै वा ए॒तद्रेतः॑ ॥49॥
यदाज्यम् । अ॒न॒डुह॑स्तण्डु॒लाः । मि॒थु॒नमे॒वाव॑रुन्धे । घृ॒ते भ॑वति । य॒ज्ञस्यालूख्षान्तत्वाय । च॒त्वार॑ आर्‌षे॒या प्राश्ञ॑न्ति । दि॒शामे॒व ज्योति॑षि जुहोति । प॒शवो॒ वा ए॒तानि॑ ह॒वीषि॑ । ए॒ष रु॒द्रः । यद॒ग्निः ॥50॥
यथ्स॒द्य ए॒तानि॑ ह॒वीषि॑ नि॒र्वपेत् । रु॒द्राय॑ प॒शूनपि॑ दध्यात् । अ॒प॒शुर्यज॑मानस्स्यात् । यन्नानु॑नि॒र्वपेत् । अन॑वरुद्धा अस्य प॒शव॑स्स्युः । द्वा॒द॒शसु॒ रात्री॒ष्वनु॒ निर्व॑पेत् । सँ॒व्व॒थ्स॒रप्र॑तिमा॒ वै द्वाद॑श॒ रात्र॑यः । सँ॒व्व॒थ्स॒रेणै॒वास्मै॑ रु॒द्र श॑मयि॒त्वा । प॒शूनव॑रुन्धे । यदेक॑मेकमे॒तानि॑ ह॒वीषि॑ नि॒र्वपेत् ॥51॥
यथा॒ त्रीण्या॒वप॑नानि पू॒रयेत् । ता॒दृक्तत् । न प्र॒जन॑न॒मुच्छि॑षेत् । एक॑न्नि॒रुप्य॑ । उत्त॑रे॒ सम॑स्येत् । तृ॒तीय॑मे॒वास्मै॑ लो॒कमुच्छि॑षति प्र॒जन॑नाय । तम्प्र॒जया॑ प॒शुभि॒रनु॒प्रजा॑यते । अथो॑ य॒ज्ञस्यै॒वैषाऽभिक्रान्तिः । र॒थ॒च॒क्रम्प्रव॑र्तयति । म॒नु॒ष्य॒र॒थेनै॒व दे॑वर॒थम्प्र॒त्यव॑रोहति ॥52॥
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । हो॒त॒व्य॑मग्निहो॒त्राँ (३)न हो॑त॒व्या (३) मिति॑ । यद्यजु॑षा जुहु॒यात् । अय॑थापूर्व॒माहु॑ती जुहुयात् । यन्न जु॑हु॒यात् । अ॒ग्नि परा॑भवेत् । तू॒ष्णीमे॒व हो॑त॒व्यम् । य॒था॒पू॒र्वमाहु॑ती जु॒होति॑ । नाग्नि परा॑भवति । अ॒ग्नीधे॑ ददाति ॥53॥
अ॒ग्निमु॑खाने॒वर्तून्प्री॑णाति । उ॒प॒बर्‌ह॑णन्ददाति । रू॒पाणा॒मव॑रुद्ध्यै । अश्व॑म्ब्र॒ह्मणे । इ॒न्द्रि॒यमे॒वाव॑रुन्धे । धे॒नु होत्रे । आ॒शिष॑ ए॒वाव॑रुन्धे । अ॒न॒ड्वाह॑मध्व॒र्यवे । वह्नि॒र्वा अ॑न॒ड्वान् । वह्नि॑रध्व॒र्युः ॥54॥
वह्नि॑नै॒व वह्नि॑ य॒ज्ञस्याव॑रुन्धे । मि॒थु॒नौ गावौ॑ ददाति । मि॒थु॒नस्याव॑रुद्ध्यै । वासो॑ ददाति । स॒र्व॒दे॒व॒त्यँ॑व्वै वासः॑ । सर्वा॑ ए॒व दे॒वता प्रीणाति । आ द्वा॑द॒शभ्यो॑ ददाति । द्वाद॑श॒ मासास्सँव्वथ्स॒रः । सँ॒व्व॒थ्स॒र ए॒व प्रति॑तिष्ठति । काम॑मू॒र्ध्वन्देयम् । अप॑रिमित॒स्याव॑रुद्ध्यै ॥55॥
Go to Main Page